|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.41. अध्यायः 041
Mahabharata - Vana Parva - Chapter Topics
यमवरुणकुबेरैरर्जुनायास्त्रदानम् ॥ 1 ॥ अर्जुनंप्रति शक्रेण स्वर्गागमनचोदना ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-41-0x(1882)(17373)
तस्य संपश्यतस्त्वेव पिनाकी गोवृषध्वजः।
जगामादर्शनं भानुर्लोकस्येवास्तमीयिवान् ॥ 3-41-1(17374)
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा।
मया साक्षान्महादेवो दृष्ट इत्येव भारत ॥ 3-41-2(17375)
धन्योस्म्यनुगृहीतोस्मि यन्मया त्र्यम्बको हरः।
पिनाकी वरदो रूपी दृष्टः स्पृष्टश्ट पाणिना ॥ 3-41-3(17376)
कृतार्थं चावगच्छामि परमात्मानमात्मना।
शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् ॥ 3-41-4(17377)
इत्येवं चिन्तयानस्य पार्थस्यामिततेजसः।
ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः।
यादोगणवृतः श्रीमानाजगाम जलेश्वरः ॥ 3-41-5(17378)
नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैर्मरुद्गणैः।
वरुणो यादसांभर्ता वशी तं देशमागमत् ॥ 3-41-6(17379)
अथ जाम्बूनदवपुर्विमानेन महार्चिषा।
कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः ॥ 3-41-7(17380)
विद्योतयन्निवाकाशमद्भुतोपमदर्शनः।
धनानामधिपः श्रीमानर्जुनं द्रष्टुमागतः ॥ 3-41-8(17381)
तथा लोकान्तकः श्रीमान्यमः साक्षात्प्रतापवान्।
मर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः ॥ 3-41-9(17382)
दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत्।
वैवस्वतो धर्मराजो विमानेनावभासयन् ॥ 3-41-10(17383)
त्रील्लोकान्गुह्यकांश्चैव गन्धर्वाश्चैव पन्नगान्।
द्वितीय इव मार्ताण्डो युगान्ते समुपस्थिते ॥ 3-41-11(17384)
भानुमन्ति विचित्राणि शिखराणि महागिरेः।
समास्थायार्जुनं तत्रददृशुस्तपसान्वितम् ॥ 3-41-12(17385)
ततो मुहूर्ताद्भगवानैरावतशिरोगतः।
आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः ॥ 3-41-13(17386)
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि।
शुशुभे नागराजस्थः सितमभ्रमिव स्थितः ॥ 3-41-14(17387)
संस्तूयमानो गन्धर्वैर्ऋषिभिश्च तपोधनैः।
शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः ॥ 3-41-15(17388)
अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम्।
यमऋ परमधर्मज्ञो दक्षिणां दिशमास्थितः ॥ 3-41-16(17389)
अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान्।
दृष्टिं ते वितरामोऽद्य भवानर्हति दर्शनम् ॥ 3-41-17(17390)
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः।
नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः ॥ 3-41-18(17391)
त्वया च वसुसंभूतो महावीर्यः पितामहः।
भीष्मः परमधर्मात्मा जेतव्यश्च रणेऽनघ ॥ 3-41-19(17392)
क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम्।
निवातकवचाश्चैव संसाध्याः कुरुनन्दन ॥ 3-41-20(17393)
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः।
कर्णश्व सुमहावीर्यस्त्वया वध्यो धनंजय ॥ 3-41-21(17394)
अंशाश्च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम्।
त्वया निपातिता युद्धेस्वकर्मफलनिर्जिताम्।
गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन ॥ 3-41-22(17395)
अक्षया तव कीर्तिश्च लोके स्थासय्ति फल्गुन।
त्वया साक्षान्महादेवस्तोषितो हि महामृधे ॥ 3-41-23(17396)
लघ्वी वसुमती चापि कर्तव्या विष्णुना सह ॥ 3-41-24(17397)
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम्।
अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि ॥ 3-41-25(17398)
वैशम्पायन उवाच। 3-41-26x(1883)
प्रतिजग्राह पार्थोपि विधिवत्कुरुनन्दनः।
समन्त्रं सोपरोधं च समोक्षविनिवर्तनम् ॥ 3-41-26(17399)
ततो जलधरश्यामो वरुणो यादसांपतिः।
पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः ॥ 3-41-27(17400)
पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः।
पश्य मां पृथुताम्राक्ष वरुणोस्मि जलेश्वरः ॥ 3-41-28(17401)
मया समुद्यतान्पाशान्वारुणाननिवारितान्।
प्रतिगृह्णीष्व कौन्तेय सहरहस्यनिवर्तनान् ॥ 3-41-29(17402)
एभिस्तदा मया वीर संग्रामे तारकामये।
दैतेयानां सहस्राणि संयतानि महात्मनाम् ॥ 3-41-30(17403)
तस्मादिमान्महासत्व मत्प्रसादसमुत्थितान्।
गृहाण न हि ते मुच्येदन्तकोप्याततायिनः ॥ 3-41-31(17404)
अनेन त्वं यदाऽस्त्रेण संग्रामे विचरिष्यसि।
तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः ॥ 3-41-32(17405)
`ततस्तान्वारुणानस्त्रान्दिव्यानस्त्रविदांवरः।
प्रतिजग्राह विधिवद्वरुणाद्वासविस्तदा ॥' 3-41-33(17406)
ततः कैलासनिलयो धनाध्यक्षोऽभ्यभापत।
दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च ॥ 3-41-34(17407)
प्रीतोऽहमपि ते प्राज्ञ पाण्डवेय महाहल।
त्वया सह समागम्य अजितेन तथैव च ॥ 3-41-35(17408)
सव्यसाचिन्महाबाहो पूर्वदेव सनातन।
सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः ॥ 3-41-36(17409)
दर्शनं ते त्विदं दिव्यं प्रदिशामि नरर्षभ।
अमानुषान्महाबाहो दुर्जयानपि जेष्यसि ॥ 3-41-37(17410)
मत्तश्चैव भवानाशु गृह्णात्वस्त्रमनुत्तमम्।
अनेन त्वमनीकानि धार्तराष्ट्रस्य धक्ष्यसि ॥ 3-41-38(17411)
मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं भम।
ओजस्तेजोद्युतिकरं प्रस्वापनमरातिनुत् ॥ 3-41-39(17412)
महात्मना शंकरेण त्रिपुरं निहतं यादा।
तदैतदस्त्रं निर्मुक्तं येन दग्धा महासुराः ॥ 3-41-40(17413)
त्वदर्थमुद्यतं चेदं मया सत्यपराक्रम।
त्वमर्हो धारणे चास्य मेरुप्रतिमगौरव। 3-41-41(17414)
ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः।
कौबेरमधिजग्राह दिव्यमस्त्रं महाबलः ॥ 3-41-42(17415)
ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम्।
सान्त्वयञ्श्लक्ष्णयावाचादिव्यदुन्दुभिनिःस्वनः ॥ 3-41-43(17416)
कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः।
परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः ॥ 3-41-44(17417)
देवकार्यं तु सुमहत्त्वया कार्यमरिंदम।
आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते ॥ 3-41-45(17418)
रथो मातलिसंयुक्त आगतस्त्वत्कृते मम।
तत्र तेऽहंप्रदास्यामि सर्वाण्यस्त्राणि कौरव ॥ 3-41-46(17419)
तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि।
जगाम विस्मयं धीमान्कुन्तीपुत्रो धनंजयः ॥ 3-41-47(17420)
ततोऽर्जुनो महातेजा लोकपालान्समागतान्।
पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि ॥ 3-41-48(17421)
ततः प्रतिययुर्देवाः प्रतिपूज्य धनंजयम्।
यथागतेन विबुधाः सर्वे कामं मनोजवाः ॥ 3-41-49(17422)
3-41-50(17423)
ततो ऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्पभः।
कृतार्थमथ चात्मानं स मेने पूर्णमानसम् ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-41-4 निर्वृत्तं निष्पन्नम् ॥ 3-41-5 यादांसि जलजन्तवस्तेषां गणः ॥ 3-41-6 नागैः सर्पैः ॥ 3-41-12 भानुमन्ति दीप्तिमन्ति ॥ 3-41-17 वितरामो यच्छामः ॥ 3-41-20 संसाध्याः जेतव्याः ॥ 3-41-21 मम पितुः सूर्यस्य ॥ 3-41-23 मृधेसंप्रामे ॥ 3-41-24 लध्वी भारशून्या ॥ 3-41-30 संयतानि बद्धानि ॥ 3-41-35 अजितेन कृष्णेन यथा तथैव प्रीतोस्मि ॥ 3-41-36 पूर्वदेव नर ॥ 3-41-41 उद्यतमुपस्थितम् .। 3-41-44 देवगतिं देवानां परायणत्वम् ॥ 3-41-45 आगन्ता इति झ. पाठः। आगन्ता आयास्यतीत्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|